षट् (संख्या) - 6
सर्वाः संख्याः प्रधानाः तथापि भारतीयानां चिन्तनमनुसृत्य काचितां संख्यानां प्राधान्यं किञ्चिद् अधिकम् अस्तीति दृश्यते। यथा शून्यम् एकम् अष्ट नव षोडश अष्टादश अष्टोत्तरशतं इत्यादयाः। एवं रीत्या षड् अपि किञ्चित् प्राधान्ययुक्ता एव । भारतीयानां तत्तचिन्तने षड् इति संख्यायाः प्राधान्यं कुत्र कुत्रास्तीति सम्क्षिप्तरूपेण पश्यामः।
षण्मुखः
भगवतः कार्तिकेयस्य षण्मुखः -षडाननः इति नामद्वयं प्रसिद्धं तस्य षट् मुखानि सन्तीति कारणेन षडानन इति प्रसिद्धो जातः। भगवतः षट् मुखानि पञ्चेन्द्रियानां तथा मनसः प्रतीकानि इत्येव अवगम्यन्ते। षट्मातृभिः पोषितः भगवान् सुब्रह्मण्यः षण्मातुर इत्यपि प्रसिद्धः।
षड्गुणा:
ज्ञान-बल-ऐश्वर्य- वीर्य - शक्ति -तेजस् एते षड्गुणा इति बुधैः कथ्यन्ते।
अरि- षड्वर्गः
षट् शत्रवः काम-क्रोध लोभ - मोह - मद - मास्तर्य एते जीवने अस्माकं नाशाय एव भवन्ति। अत वयं एतान् वर्जयेम।
षडूर्मयः
शोक - मोह- ज्वर - मृत्यु - क्षुधा - पिपासा च एताः षडूर्मयः। अर्थात् ऐताः शारीरिकान् एवं मानसिकान् च भावान् जनयन्ति। शत्रुजित्त्, शत्रुतापनः एेते विष्णोः नामनी अत्र आत्मनि स्थितानां एतादृशानां शत्रूणाम् उपरि विजयं प्राप्तम् इत्येव भावः।
षडङ्गन्यासः
होमजपपूजादि उपासनानां पूर्वं मन्त्रसमेतं शरीसस्य षट् स्थानेषु स्पृशति एतदेव षडङ्गन्यासः।
षट्कर्माणि
क्षमा - दम - तप - शौच - क्षान्ति- आर्जवम् इति ब्राह्मणानां लक्षणानि इति गीतायाम्।
षड्शास्त्राणि
शिक्षा -कल्प- व्याकरणं- निरुक्तं -छन्दः- ज्योतिषम् एतानि षड्शास्त्राणि इति प्रसिद्धानि।
षड्दर्शनानि
साङ्ख्यम् - योगम् - न्यायम् - वैशेषिकम् - मीमांसा - वेदान्तः एतानि भारतीयानां विश्वप्रसिद्धानि षड्दर्शनानि।
षड्ऋतवः
मार्गपौषौ हिमः १
माघ-फाल्गुनौ शिशिरः २ चैत्रवैशाखौ वसन्तः ३
ज्यैष्ठाषाढौ ग्रीष्मः ४ श्रावणभाद्रौ वर्षाः ५
आश्विनकार्त्तिकौ शरत् ६
"मासद्वयात्मकः कालः ऋतुः प्रोक्तो विचक्षणैः" इति श्लोके।
षड्रसाः
षट् विध रुचयः
कषाय- मधुर- तिक्त- लवण - आम्ल - कटु
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः।
तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु॥
षट् संख्यासंबद्घाः इतोऽपि वैशिष्ट्यम् अस्माकं धर्मे दृश्यते।
एवं प्रकारेण बहुप्राधन्ययुक्ता संख्या अस्ति षट् इति वयं जानीम।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें